|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.58. अध्यायः 058
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन रणे विकर्णादिपराभवनपूर्वकं कर्णानुजहननम् ॥ 1 ॥ अर्जुनपराजितेन कर्णेन रणाङ्कणादपयानम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-58-0x(3231)(30745)
तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा।
भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः ॥ 4-58-1(30746)
तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः ।
ततो व्यूह्य महाबाहुः समरेष्वपराजितः ॥ 4-58-2(30747)
रथनागाश्वकलिकं युयुजे युद्धकोविदः ।
अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम् ॥ 4-58-3(30748)
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि।
अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च ॥ 4-58-4(30749)
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि।
गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ॥ 4-58-5(30750)
सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः।
संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि ॥ 4-58-6(30751)
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् ।
विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम् ॥ 4-58-7(30752)
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् ।
सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम् ॥ 4-58-8(30753)
गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः ।
तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् ।
तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम् ॥ 4-58-9(30754)
वैशम्पायन उवाच। 4-58-10x(3232)
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै ।
विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ॥ 4-58-10(30755)
तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन्।
अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे ॥ 4-58-11(30756)
चित्राङ्गदश्चित्ररथश्च वीरः संग्रामजिद्दुःसहचित्रसेनौ ।
विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च।
शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः ॥ 4-58-12(30757)
पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य ।
प्रगृह्य चापानि महाबला रणे धनंजयं पर्यकिरञ्शरार्चिभिः ॥ 4-58-13(30758)
तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम्।
कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः ॥ 4-58-14(30759)
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन ।
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ॥ 4-58-15(30760)
ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम्।
न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाञ्जवेन ॥ 4-58-16(30761)
तं शात्रवाणां गणवाधितारं कर्माणि कुर्वाणममानुपाणि।
शत्रुंतपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम् ॥ 4-58-17(30762)
स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरपाम् ।
शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ॥ 4-58-18(30763)
ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन ।
गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः ॥ 4-58-19(30764)
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः ।
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ॥ 4-58-20(30765)
हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः ।
वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये।
सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः ॥ 4-58-21(30766)
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ 4-58-22(30767)
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे।
तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥ 4-58-23(30768)
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः ।
एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली ॥ 4-58-24(30769)
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी ।
प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम ॥ 4-58-25(30770)
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् ।
विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने ॥ 4-58-26(30771)
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः।
प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः ॥ 4-58-27(30772)
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् ।
समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम् ॥ 4-58-28(30773)
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ ।
कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः ॥ 4-58-29(30774)
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात्।
क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या ॥ 4-58-30(30775)
ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम्।
अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः ॥ 4-58-31(30776)
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् ।
बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः ॥ 4-58-32(30777)
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु।
प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम् ॥ 4-58-33(30778)
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम्।
ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः ॥ 4-58-34(30779)
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम्।
ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा ॥ 4-58-35(30780)
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः ।
वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः ॥ 4-58-36(30781)
तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः।
राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः ॥ 4-58-37(30782)
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः ।
सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः ॥ 4-58-38(30783)
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान्।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ 4-58-39(30784)
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् ।
तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥ 4-58-40(30785)
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम्।
प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान् ॥ 4-58-41(30786)
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन् ॥ 4-58-42(30787)
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे।
न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम् ॥ 4-58-43(30788)
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम्।
कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया। 4-58-44(30789)
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि।
तत्सत्यं कुरु राधेय कुरुमध्ये मया सह ॥ 4-58-45(30790)
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया ।
दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम् ॥ 4-58-46(30791)
धर्मपाशनिबद्धेन यन्मया मर्षितं तव।
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते ॥ 4-58-47(30792)
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम्।
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः ॥ 4-58-48(30793)
इदानीमेव तावत्त्वमपयातो रणान्मम।
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव ॥ 4-58-49(30794)
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् ।
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥ 4-58-50(30795)
कर्ण उवाच। 4-58-51x(3233)
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर।
विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि ॥ 4-58-51(30796)
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् ।
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम् ॥ 4-58-52(30797)
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा।
तथैव बद्धमात्मानमबद्ध इति मन्यसे ॥ 4-58-53(30798)
न हि तावद्वने वासो यथोक्तं चरितस्त्वया ।
क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि ॥ 4-58-54(30799)
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात्।
तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥ 4-58-55(30800)
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः।
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम् ॥ 4-58-56(30801)
वैशम्पायन उवाच। 4-58-57x(3234)
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम्।
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥ 4-58-57(30802)
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः ॥ 4-58-58(30803)
शरवर्षेण महता पर्जन्य इव वृष्टिमान्।
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः ॥ 4-58-59(30804)
जिघांसुः समरे कर्णं विससर्ज शरान्बहून्।
तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः ॥ 4-58-60(30805)
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान्।
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरं ॥ 4-58-61(30806)
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः ।
ववर्ष च रजो भौमं कर्णपार्थसमागमे ॥ 4-58-62(30807)
न स्म सूर्यः प्रतपति न च वाति समीरणः।
शरप्रच्छादितं व्योम छायाभूतमिवाभवत् ॥ 4-58-63(30808)
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा।
दह्यतामिव वेणूनामासीत्परमदारुणः ॥ 4-58-64(30809)
अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन्।
क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत् ॥ 4-58-65(30810)
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्।
छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान्
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः ॥ 4-58-66(30811)
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः ।
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥ 4-58-67(30812)
अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः ।
हिरण्यकक्ष्यां शरजालचित्रा यथा नगाः पावकजालनद्धाः ॥ 4-58-68(30813)
तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि ।
वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम् ॥ 4-58-69(30814)
ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनंजयस्य।
षङ्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य केतुम् ॥ 4-58-70(30815)
सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः ।
कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम् ॥ 4-58-71(30816)
स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत्।
पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयांचकार ॥ 4-58-72(30817)
तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः।
गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः ॥ 4-58-73(30818)
स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा ।
सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली ॥ 4-58-74(30819)
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात्।
आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् ॥ 4-58-75(30820)
अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च।
कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः ॥ 4-58-76(30821)
स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी।
विहाय संग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः ॥ 77 ॥ ॥ 4-58-77(30822)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-58-23 वायुर्यथा खे आकाशे रजो नुदन् चरति तथेत्यध्याहारेण योजना ॥ 23 ॥ 4-58-30 कर्णमुदीक्ष्य हर्षादिति धo पाठः ॥ 30 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|